वांछित मन्त्र चुनें

स वां॑ य॒ज्ञेषु॑ मानवी॒ इन्दु॑र्जनिष्ट रोदसी । दे॒वो दे॑वी गिरि॒ष्ठा अस्रे॑ध॒न्तं तु॑वि॒ष्वणि॑ ॥

अंग्रेज़ी लिप्यंतरण

sa vāṁ yajñeṣu mānavī indur janiṣṭa rodasī | devo devī giriṣṭhā asredhan taṁ tuviṣvaṇi ||

पद पाठ

सः । वा॒म् । य॒ज्ञेषु॑ । मा॒न॒वी॒ इति॑ । इन्दुः॑ । ज॒नि॒ष्ट॒ । रो॒द॒सी॒ इति॑ । दे॒वः । दे॒वी॒ इति॑ । गि॒रि॒ऽस्थाः । अस्रे॑धन् । तम् । तु॒वि॒ऽस्वनि॑ ॥ ९.९८.९

ऋग्वेद » मण्डल:9» सूक्त:98» मन्त्र:9 | अष्टक:7» अध्याय:4» वर्ग:24» मन्त्र:3 | मण्डल:9» अनुवाक:6» मन्त्र:9


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सः) वह उक्त परमात्मा (वाम्) तुम कर्मयोगी और ज्ञानयोगियों के (यज्ञेषु) यज्ञों में (जनिष्ट) शुभफलों को उत्पन्न करता है, इसलिये (मानवी) हे मनुष्यसृष्टि के कर्मयोगी और ज्ञानयोगी विद्वानों ! और (रोदसी) द्युलोक और पृथिवीलोक के मध्य में (देवी) दिव्य गुणवती स्त्रियों ! (इन्दुः) वह प्रकाशस्वरूप परमात्मा (देवः) जो दिव्यगुणयुक्त है, (गिरिष्ठाः) जो सब ब्रह्माण्डों में स्थित है, तुम (तुविष्वणि) ज्ञानयज्ञों में (तम्) उस परमात्मा का (अस्रेधन्) साक्षात्कार करो ॥९॥
भावार्थभाषाः - जीवमात्र के शुभ-अशुभ कर्मों के फलों का दाता एकमात्र परमात्मा ही है ॥९॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सः) स परमात्मा (वां) युवां ज्ञानयोगिकर्मयोगिनौ (यज्ञेषु) क्रतुषु (जनिष्ट) शुभफलान्युत्पाद्य तैर्योजयति अतः (मानवी) हे उभयथा विद्वांसौ ! मनुष्यसृष्टिवर्तिनौ ! तथा च (रोदसी) द्यावापृथिव्योर्मध्ये (देवी) हे दिव्यगुणवत्यः स्त्रियः ! (इन्दुः) प्रकाशमयः (देवः) दिव्यगुणसम्पन्नः परमात्मा (गिरिष्ठाः, तं) सर्वब्रह्माण्डेषु व्याप्तो यस्तं (तुविष्वणि) ज्ञानयज्ञेषु (अस्रेधन्) साक्षात्कुरुत ॥९॥